________________
चतुर्थः सर्गः ।
प्रतिसद्म ततो यातु प्रत्यहं चैकमानवः । वस्तुमस्या गृहे चैवं सा मेने जनताऽखिला ॥ ११ ॥ अथान्येयुः समागत्य नापितेनेति भाषिता। कुमारसन्निधौ वृद्धा तवाद्याजनि वारकः ॥ १२ ॥ सा निशम्य वचस्तस्य रुरोद करुणं तथा । वयंसां शल्यितं चेतो याङ्गणकणादिनाम् ॥ १३ ॥ हे धातर्भर्तृशून्याहं हताशा दुःखपूरिता। सन्दर्शनेन जीवामि सुतवत्रस्य केवलम् ॥ १४ ॥ सहते न तदप्येष विधाता विदधे किमु । इत्यादि विलपन्ती सा तेनाऽवाचि महात्मना ॥१५॥ समग्रदुःखसम्भारलीलालुण्टेनलम्पटे । मातर्मय्याप सत्येवं पुत्रे किमिति रोदिषि ॥ १६ ॥ अहं तत्र गमिष्यामि त्वं तिष्ठ सुखिताऽम्बिके। तयाऽभाणि युवां पुत्र वामदक्षिणचक्षुषी ॥ १७ ॥ तत्कस्य सह्यतां नाशः किञ्च कामाकृतिर्भवान् । कुलकेतुर्महासत्त्वो मत्प्राणैरपि जीवतु ॥ १८ ॥ चिन्तितं च कुमारेण जातेनाऽपि हि तेन किम् । येनाऽऽपत्कर्दमे मन्ना नोद्धृताः प्राणधारिणः ॥ १९ ॥ स्वफलैः प्रीणयन्त्येव पान्थसार्थान द्रुमा अपि । यत्र तत्रोपकाराय यतनीयं न किं भिः ॥२०॥
१ वसतिं कर्तुम् । २ अवसरः । ३ पक्षिणां । ४ पृथ्वीकणभक्षकाणां। ५ नाशन । ६ मातः । ७ प्रसन्नयन्ति । ८ मनुष्यैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org