SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ जिनदत्तचरित्रे चतुर्थः सर्गः। - oअथ प्राप्तौ पयोराशेरुपान्तं क्रमयोगतः। तायपास्तश्रमौ शीतवेलावनसमीरणौ ॥१॥ कृत्वा पूजादिकं तत्रारूढौ पोतं शुभे दिने। प्राप वेगात्तटं सोऽपि प्रेरितः शुभवायुना ॥२॥ ततोऽवतीर्य हष्टौ तौ झगित्येव समागमत् । प्रविष्टौ च ततो द्वीपं पूर्वोदितममा जनैः ॥ ३ ॥ आवासिता जनास्तत्र बहिरन्तर्यथायथम् । कुमारः श्रावकंमन्ये वृद्धैकस्या गृहे स्थितः ॥४॥ विविक्ताहारपानादिबुद्ध्या सार्थेशसम्म॑ताः । क्रियादिकं ततः कर्तु प्रवृत्ताः सकला जनाः ॥५॥ योऽथ राजा पुरस्तस्या मेघवाहनसंज्ञितः। विजयाकुक्षिसम्भूता तत्सुता श्रीमतीत्यभूत् ॥६॥ प्राप्ताऽपि यौवनं कामामोधास्त्रं सौम्यदर्शना। सेन्दुमूर्तिरिवांकन रोगेणाऽतिकर्थिता ॥ ७ ॥ यथा यः सन्निधौ तस्याः कोऽपि स्वपिति याति सः। यमवेश्म ततस्तस्यां निर्विण्णाः जनकादयः ॥ ८॥ प्रासादे सुन्दरे साध्वी सा बहिः स्थापिता ततः । अभ्यर्थितश्च भूपेन पौरलोकः सगौरवम् ॥ ९ ॥ केनाऽपि पूर्वपापेन ममेयं देहजाऽजनि । आनयामि ततो यावत्कुतोऽपि भिषजं जनाः ॥ १० ॥ १ सह । २ आदिष्टाः। ३ वैद्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy