________________
तृतीयः सर्गः
1
धृतः स्वगेहे गुणरत्नकोशः सर्वज्ञधर्मामृतपानपुष्टः ॥ १२४ ॥ अथाऽन्यदा चिन्तितवानितीदं । स्थातुं न मे सद्मनि युज्यतेऽस्य ।
न यावद्याऽप्यभिसारिकेव
कृता भ्रमन्ती स्ववशे मया श्रीः ॥ १२५ ॥
विना न दानेन समस्ति धर्मः
सुपुष्कलेनाऽपि धनेन कामः । विना धनं नो व्यवसायतोऽस्ति त्रिवर्गमूलं तदिदं स्वमेव ॥ १२६ ॥
Jain Education International
རྩྭ་
भवाचि तेनेति ततः स तातः
प्रयच्छ भाण्डं जलयात्रया नः । यामो यदादाय विचित्ररत्नं
द्वीपं जवात्सिहलशब्दपूर्वम् ॥ १२७ ॥ निशम्य तदुरितं भणति सार्थवाहो मुदा यैव सह गम्यतां यदि समस्ति बुद्धिर्धने । ततः प्रगुणिताऽखिलोचितविचित्रभाण्डैः समं । जनैर्बहुविधैरिमौ मुदितमानसौ प्रस्थितौ ॥ १२८ ॥
इति श्रीभगवद्गुणभद्राचार्य्यविरचिते जिनदत्तचरित्रे तृतीयः सर्गः ॥
For Private & Personal Use Only
t
www.jainelibrary.org