________________
जिनदत्तचरित्रे
सविभ्रमा कृता तत्र जातपुष्पफलोद्भवा । समस्ताऽपि कुमारेण वनस्पतिनितम्बिनी ॥ ११५ ॥ मार्कन्दकलिकास्वादकलकूजितकोकिलम् । सुगन्धिकुसुमामोदसुखलब्धमधुव्रतम् ॥ ११६ ॥ माधवीमण्डपोपान्तकीडत्कामुकयुग्मकम् । नागवल्लीकृताऽऽश्लेषसफलक्रमुकद्रुमम् ॥ ११७॥ नभोऽवतीर्णसंभ्रान्तकिन्नरीकलगीतिभिः । त्यक्तदूर्वाङ्कुरास्वादकुरङ्गककदम्बकम् ॥ ११८ ॥ लतान्तरचलच्चारुसारिकाशुकजल्पनैः। उत्कर्णचकितानेकसङ्केतस्थाभिसारिकम् ॥११९ ॥ तरुमूलसमासन्नध्यानासक्ततपोधनम् । तद्भक्तिभाविताऽऽयातखेचरामरमानवम् ॥ १२० ॥ नितान्तफलसम्भारभज्यमानमहीरुहम् । रतान्तश्रमसंहारकारिचारुप्रभंजनम् ॥ १२१ ॥ (कुलकम् तथाविधं तदालोक्य चक्रे चैत्रोत्सवानसौ। पूजयामास सद्वस्त्रभूषणाद्यैश्च तं सदा ॥ १२२ ॥ राजादिजनविख्यातो नारीनेत्रालिपङ्कजः। जिनदत्तोऽभवत्तत्र जिनधर्मपरायणः ॥ १२३ ॥ ततो महात्मा वननायकेन पुत्रः स मेने मदनोपैमानः।
१ कटाक्षयुक्ता पक्षिभ्रमणयुक्ता च । २ सिंदुवारः। ३ "वासन्ती माधवी तथा इत्यमरः । ४ पूगीफलम्।। ५मदनस्य उपमान अर्थात् मदनादपि श्रेष्ठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org