SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः . पुलकैरिव रागस्य स्तवकैः क्वाऽपि रेजिरे। अशोकाः कामिनीपादताडनेन समुद्तैः ॥ १०६ ॥ बिभिदे काऽपि बाणेन वाणेनेव मनोभुवः । पुष्पपुंखभृता तत्र वियुक्तानां मनो भृशम् ॥ १०७ ॥ कटाक्षैर्लक्षितः पूर्व पुरन्ध्रीणां यदादरात् । उवाह तिलकस्तेन तिलंकत्वं वनश्रियः ॥ १०८॥ विचकास कुचाभोगसङ्गात् कुरबकः स्त्रियः । यथा तथा कृतः सोऽपि अङ्गैः सुरवकस्तदा ॥१०९॥ प्रमदामद्यगण्डूषो वकुलैर्यः पपे पुरा। प्रवृद्धकुसुमामोदैरुद्गीर्ण इव शोभितः ॥ ११० ॥ कृताऽऽरार्तिकमाङ्गल्यदीपकैरिव चम्पकैः। विशतो रतिनाथस्य तत्र पुष्पैर्विराजितम् ॥ १११ ॥ उत्कर्षो गुणसम्पर्के जातेनाशुचिजन्मना। यदाप्तं कुंकुमेनोच्चैः कामिनीमुखमण्डनम् ॥ ११२ ॥ चक्रे कण्टकिभिस्तत्र सरजस्कैः खलैरिव । सुगन्धगुणयोगेन केतकैर्मस्तके पदम् ॥ ११३॥ सेकधूपनपूजादियोग्यं यद्यस्य भूरुहः । विधाय तत्तदा तस्य तेनाऽकारि विदोच्चता ॥ ११४ ॥ १ स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुरवको वीक्षणालिंगनाभ्याम् । मन्दारो नर्मवाक्यात्पटुमदुहसनाच्चम्पकं वक्रवाताच्चतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः ॥१॥ २ स्वामित्वं । ३ भ्रमरैः । ४ श्रेष्ठशब्दयुक्तः कृतः । ५ ज्ञानिना ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy