________________
जिनदत्तचरित्रे
गवेषितश्च यत्नेन पक्षद्वयजनैरयम् । सर्वतोऽपि च नालोकि ततस्तस्थे यथायथम् ॥ ९६ ॥ अथासौ जिनदत्तोऽपि प्रापद्दधिपुरं पुरम् । दृष्ट्वा प्रविशता तत्र तेनोद्यानं मनोहरम् ॥ ९७ ॥ तस्य मध्ये विवेशासौ विश्रामाय ददर्श च । गुल्मवल्लीद्रुमांस्तत्र सर्वानप्यवकेशिनः ॥ ९८ ॥ अहो वनमिदं केन हेतुनाऽभवदीदृशम् । क्रियमाणेऽपि सेकादौ यावदित्थमचिन्तयत् ॥ ९९ ॥ तावत्तत्र समायातः परीतः पत्तिभिः पुरात् । जंपॉनस्थः समुद्राख्यः सार्थवाहो धनाधिपः ॥ १०० ॥ अयमप्राकृताकारः कोऽपि पान्थ इति क्षणम् । विचिन्त्याऽवाचि तेनासौ कुतो यूयं समागताः ॥ १०१। भणितं च कुमारेण भ्राम्यन् भूमिमितस्ततः। क्षेमादिकं परीपृच्छ्य ज्ञात्वोत्तमगुणं च तम् ॥ १०२ ॥ उक्तं तेन ततो भद्र दृष्टं वनमिदं त्वया। अस्ति कश्चिदुपायो वा येनेदं फलवद्भवेत् ॥ १०३ ॥ विज्ञाताशेषवृक्षायुर्वेदोऽवादीदसावदः। नन्दनाभं करोम्येष विलम्बेन विना वनम् ॥ १०४ ॥ हृष्टात्मना ततस्तेन सामग्री सकला कृता । दोहदादिकमादाय कुमारेणाऽपि तत्कृतम् ॥ १०५ ॥
१ अन्वेषितः । २ अदर्शि । ३ वन्ध्यान् । ४ पदातिभिः। ५ यानविशेषः ६ पृष्ट्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org