SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। मनो मे नवनीताभं तप्तं विरहवह्निना । विलीनमिव हा पश्चारिकमागत्य करिष्यसि ॥ ८५ ॥ ता लतास्तरवस्ते ते क्रीडागास्ते विहंगमाः । न जानामि गतः क्वापि दृष्टिं वद्वैव वस्त्रभः॥ ८६॥ सस्नेहस्तादृशी प्रीतिश्चाटुकाराश्च ते प्रभो !। विश्रम्भः स च दाक्षिण्यं तदद्य सकलं गतम् ॥ ८७ ॥ आश्वासयति मात्र को विना भवताऽधुना । विरहार्ता विभावर्या भानुनेव सरोजिनीम् ।। ८८ ॥ यत्पुरा विहितं नूनं संयुक्तानां वियोजनम् । दुःसहोऽयं समायातो विपाकस्तस्य कर्मणः ॥ ८९ ॥ जन्मान्तरेऽपि संभूतिः स्त्रीत्वेन भविता यदि । तदाऽजननिरेवाऽस्तु मा वियोगः प्रियैरमों ॥ ९० ॥ कीयतां दर्शनं पत्युः समस्ता वनदेवताः । दुःखसागरमनाया उद्धारः क्रियतां मम ॥ ९१ ॥ विलापमिति कुर्वाणा सानीता पितुरन्तिकम् । सखीजनेन वाष्पाभ्भःस्नापितस्तनमण्डला ॥ ९२ ॥ वार्ती निशम्य तां तातस्तामाश्वास्याब्रवीददः। . धर्मदानरता पुत्रि ! तिष्ठाऽत्रैव जिनालये ॥ ९३ ॥ सार्द्धमार्याभिरार्याभिः सखीभिः स्वजनैवृता । तावत्तिष्ठ सुते ! यावत्तदन्वेषणमारभे ॥ ९४ ॥ स्थापयामास तत्रैतां सान्त्वयित्वा समुद्यताम् । दाने श्रुते जिनार्चायां वैयावृत्ये यथोचिते ॥ ९५ ॥ १ हैयङ्गवीनसमं । २ क्रीडापर्वताः । ३ निशि । ४ सह । ५ इदं । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy