________________
जिनदत्तचरित्रे
सुगन्धकुसुमामोदमत्तकोकिलकोमले। .. अनल्पफलसम्भारनम्रसर्वमहीरुहे ।। ७४ ।। चिरं चिक्रीड़ तत्राऽसौ सर्वेन्द्रियसुखावहे । क्रीडाद्रिदीर्घिकावल्लीविटपादिमनोहरे ॥ ७५ ॥ विशेषक। भ्राम्यताऽथ ततस्तेन तत्रादर्शि महौषधिः । शिखायां धारिताऽदृश्यं या करोति नरं क्षणात् ॥ ७६ ॥ अस्ति यद्यपि सर्वांगसौख्यं मम निकेतनम् । तथाऽपि पितुरुत्सृज्य स्थातुमत्र न युज्यते ।। ७७ ।। अक्षमेयं वियोगं च सोढुं यद्यपि मामकम् । दन्दह्यते तथाप्येष मानभंगो मनोऽनिशम् ॥ ७८ ॥ पद्मा न यावद्यापि विहिता वशवर्तिनी । तावदेते विषायन्ते विषया मम सर्वथा ॥ ७९ ॥ तिष्ठन्तमत्र मां माम कीदृशं किल बुध्यते । इत्यादि बहु सम्भाब्य तेनाऽऽदायि महौषधिः ॥ ८० ॥ शिखाग्रे तां ततो बद्ध्वा भूत्वाऽदृश्यस्ततो नृणाम् । जगाम काऽपि साऽप्येवं विललाप तदुज्झिता ॥ ८१ ॥ प्राणनाथमपश्यन्ती सा ददर्श दिशोऽखिलाः । तप्ता सन्तमसेनेव चक्रवाकीव केवला ॥ ८२ ।। त्वदृष्टिजीविता नाथ ! त्वत्पादकुलदेवता । स्वभावप्रेमसंसक्ता हा मुक्ताऽस्मि कथञ्चन ॥ ८३ ॥ केलिलीलां विहायाऽऽशु मुखचन्द्रं प्रदर्शय ।
मनःकुमुदमाम्लानमार्यपुत्र ! विकौशय ॥ ८४ ॥ १ अक्षमा इयं । २ प्रियं । ३ प्रफुल्लय ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org