________________
तृतीयः सर्गः।
विवेश मानसे तस्य न सा शिक्षा विलासिनी । यतेरिव परं तेन शुश्रुवेऽधो विलोकिना ॥ ६३॥ चिन्तितं च पुनस्तेन नोपलम्भो भविष्यति । यथा तथा विधास्यामि किं मे बहुविकल्पनैः ॥ ६४॥ अनुमन्ये च तां तातभारतीमेवमस्त्विति । प्रणम्य तं जगामासौ प्रेयसीसदनं ततः ॥६५॥ अभ्युत्थानादिकं कृत्वा तया ज्ञातं मनोगतम् । व्यासक्तमानसं चक्रे सविलासकथान्तरैः ॥ ६६ ॥ क्षणान्तरं ततः स्थित्वा तयेति किल चिन्तितम् । नयामि किल वेश्म स्वमेतं वैचित्त्यहानये ॥६७ ॥ ऊचे तयाऽऽर्यपत्राद्य मयाऽमा भवतो मम । पित्रा सुप्रहिता लातुं तत्र किं क्रियतामिति ॥ ६८ ।। प्रापयामि पितुर्गेहमत एव मिषादिमाम् । विभाव्येति बभाणोमां युक्तमेवं वरानने ॥ ६९ ॥ आपृच्छयेति ततस्तातमनुज्ञातौ गतौ सुखम् । परां जनेन संप्राप्तौ चम्पां चारूरुगोपुराम् ॥ ७० ॥ ज्ञातवृत्तस्ततो श्रेष्ठी विमलो मुदितो गृहम् । निन्ये स्वयं परं प्रीत्या तत्राऽस्थादिनपञ्चकम् ॥ ७१ ॥ अन्येार्गतवानेष क्रीडितुं प्रियया सह । प्रमदोद्यानमुद्दामकामविश्राममन्दिरम् ॥ ७२ ॥ मजुगुजदलित्रातबद्धतोरणमालिके । मन्दगन्धवहोद्भूतकामिनीकुन्तलालके ॥ ७३॥
१ स्त्रीगृहम् २ मया सह । ३ पवनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org