________________
जिनदत्तचरित्रे
विना धनेन नार्धन्ति विमलाः सकलाः क्रियाः । विहीना यौवनेनेव सभूषाः पंण्ययोषितः ॥ ५२ ॥ कृतमेतेन तातादिधनेन मम साम्प्रतम् । गत्वा क्वापि करोम्येष धनोपार्जनमुत्तमम् ॥५३॥ प्रियामेतां निधायाशु मन्दिरे पितुरुत्सुकः। उपायं तं विधास्यामि येन स्यात्कमलाऽमला ॥ ५४॥ विचिन्त्येति ततोऽलक्ष्यवृत्तिरेष व्यवस्थितः । कुतोऽपि ज्ञातवृत्तान्तस्तमाहूय पिताऽब्रवीत् ॥ ५५ ॥ विषण्णोऽसि वृथा वत्स ! किमेवं कुरु वाञ्छितम् । धनैरेभिरहं पुत्र ! नाम्नैवैषामधीश्वरः ॥ ५६ ॥ निर्भर्तिसतो मया वत्स ! कोशाध्यक्षः सहस्रशः। यद्यन्यथा महाबुद्धे ! स्पृशामि तव मस्तकम् ॥ ५७ ॥ विनोदेनामुना किन्तु कुलकेतो ! न शोभसे । कृतं हि प्रथमं पुंसां महापापनिबन्धनम् ॥ ५८ ॥ कारयाऽऽशु जिनेन्द्राणां भवनानि महामते । सुवर्णरूप्यरनैश्च प्रतिमाः पापनाशनाः ॥ ५९ ॥ गीतवादिवत्यादि तत्रैव च दिवानिशम् । चतुर्विधाय संघाय देहि दानं यथाविधि ।।६०॥ सिद्धान्ततर्कसाहित्यशब्दविद्यादिपुस्तकैः । लेखयित्वा मुनीनां च दत्तैः पुण्यं समर्जय ॥ ६१ ॥ कूपवापीतड़ागानि प्रमदादिवनानि च । पुत्र सर्वाणि चित्राणि यथाकामं विधापय ॥६२॥ १ न पूज्या भवन्ति । २ वेश्याः ३ । करिष्यामि । ४ धनानाम् । ५कारय ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org