SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । येषामशेषसंसारसौख्यसंपत्तिशालिनी। स्वभुज़ोपार्जिता लक्ष्मीर्धन्यास्ते मानशालिनः ॥ ४१ ॥ परपुष्टा भवत्येव नूनं परिभवास्पदम् । सहन्ते हि पिकाः काकचञ्चवा घातकदर्थनम् ॥ ४२ ॥ प्रसादेन पितुः सर्व पूर्यते मम वाञ्छितम् । तथापीदं मनःखेददायकं मानभञ्जकम् ॥ ४३॥ युज्यते नोपभोगाय पुंसामुन्नतचेतसाम् । गोमिनी गुरुपत्नीव यार्जिता पूर्वपूरुषैः ॥ ४४॥ यत्सुतेभ्यः समीहन्ते सन्तः सर्वप्रकारतः । सन्तानपालनं तत्र हेतुरर्थार्जनादिभिः ॥ ४५ ॥ उदयेनेव यो भानोर्बन्धूनां मुखपङ्कजम् । विकाशि कुरुते नास्य चरितेनापि नुः किमु ॥४६॥ अलीकव्यसनासक्तचेतसा मयंका पुनः। तथाकृतं यथा नाहं शक्तस्तातमुखेक्षणे ॥ ४७ ॥ एके त एव जीवन्तु सतां मध्ये महौजसः । येषां जन्म न संजातं मानभंगमलीमसम् ॥ ४८ ॥ काले प्रदीयते यच्च विना प्रार्थनया न च । दीयते यच्च दुःखेन तदत्तसमं मतम् ॥ ४९ ॥ उक्त्वा न दीयते येषामुक्त्वा बहु तथाऽल्पकम् । कालहानिः कृता दाने सन्ति ते प्रेषिता नराः ॥ ५० ॥ तावदेव नरो लोके सुरादिशिखरोपमः । कस्यापि पुरतो यावन्न देहीति प्रजल्पति ॥ ५१ ॥ १ कोकिलाः। २ लक्ष्मीः । ३ कुत्सितेन मया। ४ समर्थः।५"देहि" इतिशब्दम् Jain Education International For Private & Personal Use Only ___www.jainelibrary.org ww
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy