SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २८ जिनदत्तचरित्रे विमुखो मुखमालोक्य याचकस्तस्य नो ययौ । स विवेश सतां चित्ते विनयेन महामनाः ॥ ३० ॥ हृदये पदमासेदुरस्य पौराणिकी कथाः । पररामाविलासाढ्या न जातु विजितात्मनः ॥ ३१ ॥ जिनाचीध्ययनासक्तः प्रभाते मध्यमेऽहनिं । संयतेभ्यः प्रदानेन स्वकाले भोगसेवया ॥ ३२ ॥ यावदास्ते सुखाम्भोधिमध्यगो बुधवल्लभः । तावदस्यान्यदा जाता शिरोऽतिः सहसा मनाक् ॥ ३३॥ युग्मं । विनोदाय ततस्तस्य वयस्येन व्यधीयत । प्रवृत्ताधीशपादातवारणाश्वविमर्द्दनम् ॥ ३४ ॥ देवनं चतुरंगाणां रणं वा सजयाजयम् । तत्रैव सोऽपि संसक्तः कौतुकात्समजायत ॥ ३५ ॥ युग्मम् । यावत्तत्रैव सञ्जाता रतिस्तस्य ततः कृतम् । धूतैद्यूतविशेषेषु क्रीडनं धनलंपटैः॥ ३६ ॥ अत्यासक्त्या समारब्धमधिकं सन्ततं ततः । हारिताश्च प्रगल्भेन द्रव्यैकादशकोटयः ॥ ३७ ॥ कोशाध्यक्षेण तातस्य वारिता धनयाचकाः । सप्तकोट्यः समाकृष्टा वल्लभाकोशतस्ततः ॥ ३८ ॥ हारितास्तु निषिद्धास्ते याचकाः कोशपालिना । गत्वा तैः कथितं तस्य यथा स्वं न हि लभ्यते ॥ ३९ ॥ वचनेन ततस्तेषां तुहिनेनेव पंकजम् । मम्लौ वदनमेतस्य संहृतं द्यूतकर्म च ॥ ४० ॥ १ क्रीडनम् । २ धनम् । ३ हिमेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy