________________
तृतीयः सर्गः।
२७
तन्मुखाम्भोजसंसक्तलोचना कुचमण्डलम् । काचिच्च्युतांशुके दृष्टिं पातयामास पश्यताम् ॥ २० ॥ वेगतो धावमानान्या स्रस्तमेखलयाऽस्खलत् । त्रुटितं हारमप्यन्या गणयामास नोत्सुका ॥ २१ ॥ अन्या जघान तं धीरा कटाक्षः क्षणमंगना । चित्रेन्दीवरमालाभिरर्चयन्तीव भक्तितः॥ २२ ॥ रूपामृतं पिबत्यस्य नेत्राउजलिपुटैः परा।। कौतुकं कामसन्तापपीडिताऽजनि मानसे ॥ २३ ॥ अन्यावोचदियं धन्या यस्या जातोऽयमीश्वरः । काचिदूचे स्फुटं कामरतियुग्ममैदः सखि ! ॥ २४॥ समाशतं सति श्रेष्ठं विलाप्त सहिताऽमुना। भुङक्ष्वेति प्रणिर्गद्याऽन्या लाजाञ्जलिमवाकिरत् ॥ २५ ॥ मोटनं भजनं जृम्भालस्यप्रेमजलोद्गमम् । तन्वन् नारीजनस्यैष प्राप स्वं सोत्सवं गृहम् ॥ २६ ॥ तत्राऽध्यास्य चतुष्कं स गोत्रवृद्धाङ्गनाकृतम् । प्रतीच्छतिस्म मांगल्यं कृतपूर्वजिनोत्सवः ॥ २७ ॥ ततो निवर्तिताशेषविवाहान्तविधिः सुधीः । तारेश इव रोहिण्या समं रेमे तयाऽनिशम् ॥ २८ ॥ भुञ्जानस्य सुखं तस्य पञ्चेन्द्रियसमाश्रयम् । जग्मुर्धर्माविरोधेन मुहूर्त्तमिव वासराः ॥ २९॥
१ अमृतं हि संतापनाशि भवति परन्तु सा तद्रूपामृतपानं कृत्वा हृदि कामतऽभूत् इत्येव कौतुकं । २ इदम् । ३ शतवर्षपर्यन्तम् । ४ उक्त्त्वा । ५ अक्षिपत्। । जग्राह । ७ चन्द्रः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org