SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २६ जिनदत्तचरित्रे गाढमालिंग्य तत्रैव वाष्पपूर्णविलोचना | रुदन्ती तां जगादेति माताऽपि प्रीतिपूर्वकम् ॥ १० ॥ विलासहाससञ्जल्पतल्पमाल्यविभूषणम् । गतागतं च सर्वेण माकार्षीरुद्धटं सुते ॥ ११ ॥ चित्तं पत्युरविज्ञाय मा कृथा मानमायतम् । उत्कण्ठिता च माभूस्त्वमस्मभ्यं शुभदर्शने ॥ १२ ॥ ज्येष्ठ देवरतद्रामाश्वश्रुषु विनता भवेः । नर्मादिकमसम्बद्धं येन केनाऽपि मा कृथाः ॥ १३ ॥ श्वश्रूं मातरिति ब्रूहि तातेति श्वशुरं नता । प्राणनाथं प्रियेशेति त्वं सुतेति च देवरम् ॥ १४ ॥ प्राभूतानि सुते ? तुभ्यं प्रष्यामि सहस्रशः । शिक्षयित्वेति तां माता विरराम सुदुःखिता ॥ १५ ॥ प्रणम्य जिनदत्तेन ततो व्यावर्त्तिता गृहम् । गतास्ते तां कुमारोऽपि लात्वाऽऽप स्वर्पुरं क्रमात् ॥ १६ आयातं तं ततो ज्ञात्वा गत्वा तातो महोत्सवैः । पुरं प्रवेशयामास सकान्तमिव मन्यथम् ॥ १७ ॥ विशन्तं तं समाज्ञाय चुक्षुभे प्रमदाजनैः । उदितं यामिनीनाथं तरंगैरिव वारिधेः ॥ १८ ॥ मण्डनादिकमुत्सृज्य प्रतिरथ्यं प्रधाविताः । काश्चिदन्याः पुना रूढाः प्रासादशिखरावलीः ॥ १९ ॥ "" १ गमनागमनं । २ चतुर्थीबहुवचनं । ३ पत्युर्लघुभ्राता " देवर" इत्युच्यते ४ प्रेषयिष्यामि । ५ तूष्णीं बभूव " व्यापरिभ्यो रमः इत्यनेन परस्मैपरम् ६ वसन्तपुरं । ७ भावे प्रत्ययः । ८ प्रतिप्रतोलीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy