SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । २५ तृतीयः सर्गः। स्थित्वा च कतिचित्तत्र दिनानि मुदितस्तया। समं विज्ञापयामास श्वशुरं गुणमन्दिरम् ॥ १॥ यथा वातादयो माम मदागमनमञ्जसा । मृगयन्तोऽवतिष्ठन्ते ततः प्रेषय मां लघु ॥२॥ अनुज्ञातस्ततस्तेन सदुःखेन कथञ्चन । भणित्वेति यथा पुत्र ! विच्छेदस्तव दुःसहः ॥ ३॥ दत्वा परिकरं सर्व दासीयानादिसंयुता। पुत्री समर्पिता तस्मै श्रीवत्सायेव गोमिनी ॥४॥ ततस्तमनुयातुं ये चेलः श्रेष्ठ्यादयो जनाः। आगत्य ते स्थिताः सर्वे बाह्योद्यानजिनालये ॥ ५॥ तत्र पूजादिकं कृत्वा शिरस्याघ्राय देहजाम् । शिक्षयामास गम्भीरमिति तां विनतां पिता ॥६॥ सुतनो ! मा कृथा जातु क्रौर्यदौर्जन्यचापलम् । अन्यथा स्याः समस्तानां विषवल्लीव दुर्भगा ॥ ७ ॥ पत्युस्कायेर्वं भूयास्त्वं सर्वदाऽनुगता सती । समानसुखदुःखा च दुर्वृत्ताचारदूरगा ॥ ८॥ धर्मकार्यरता नित्यं गुरुदेवनता सुते । निजवंशपताकेव भूयाः किं बहुभाषितैः ॥९॥ १ "साकं साधं समं सहेत्यमरः"। २ “समवप्रविभ्यःस्थः" इत्यनेनात्मनेपदं । ३ लक्ष्मीः । ४ चलन्तिस्म । ५ पुत्रीं । ६ हे पुत्रि । ७ भवेः । ८ छायावत् । Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy