________________
जिनदत्तचरित्रे
manenane
स्वतः स्वरूपसम्पत्तिवनितासक्तयोगिनि। दक्षपण्यांगनालोकवञ्चितग्रामभोगिनि ॥ १२२॥ केतकीकुसुमोद्दामगन्धमुग्धमधुव्रते। वियोगिनीमनःकुण्डप्रज्वलद्विरहानले ॥ १२३ ॥ इत्याद्यनेकचेष्टाभिः प्रवृद्धमदनोत्सवे । समये तत्र तौ नीतौ जनैर्मातृगृहं गतौ ॥ १२४ ॥(कुलकम्) निर्मले सुकुमारे च सनने मुनिमानसे । यथा तथा स्थितौ तल्पे तौ तदा मुदिताशयौ ।। १२५ ॥ लज्जालोलं विलसदतुलप्रेमसम्भारमुग्धं __ गाढोत्कण्ठं रतिरसवशं कौतुकोत्कम्पिचित्तम् । द्वंद्व निन्ये वदननिहिताऽधीरविस्तारिनेत्रां
रात्रि ताम्यत्तरलहृदयप्रोषितां तत्तदानीम् ॥ १२६ ॥ प्राचीकुंकुममण्डनं किमथवा रात्र्यंगनाविस्मृतं
रक्ताम्भोजमथो मनोजनृपते रक्तातपत्रं किमु । चक्र ध्वान्तविभेदकं युवनितामांगल्यकुम्भः किमु इत्थं शंकितमंबरे स्फुटमभूद्भानोस्तदा मण्डलम् ॥१२॥
इति श्रीमद्भगवद्गुणभद्राचार्यविरचिते जिनदत्तचरित्रे द्वितीयःसर्गः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org