________________
द्वितीयः सर्गः।
२३
प्रबोधितास्ततो दीपाः प्रतिवेश्म तमश्छिदः । सस्नेहाः सद्दशोपेताः पात्रस्थाः सुजना इव ॥ ११२ ॥ कौतुकादिव तं द्रष्टुं वधूवरयुगं तदा । निशानारी समायाता तारामौक्तिकभूषणा ॥ ११३॥ तमास्तम्बेरमेणेदं मत्वाकान्तं जगजवात् । उदियाय नभोईरण्ये चन्द्रसिंहोंऽशुकेसरः॥ ११४ ॥ मन्दमन्दतमःस्तोमं व्योम सोमकरैरैभात् । चन्दनेन मदेनेव लिप्तं स्मरपांगणम् ॥ ११५ ॥ ततः क्षीरार्णवस्येव कल्लोलैः सकला दिशः। क्षालिता इव भाश्चक्रेश्चके कुमुबान्धवः ॥ ११६॥ ददर्श त्यक्तहाराऽपि मुग्धा काऽपि रतोत्सुका । स्तनाभोग लसञ्चारुचन्द्रांशुकृततद्भमा ॥ ११७ ॥ दूतीभिर्मन्मथालापाः सकम्पा रतकौतुकाः। मुग्धा निवेशिताः शय्योत्संगेऽधीशां हठादिव ॥ ११८ ॥ अमृतैरिव निौते कर्पूरौरव पूरिते । जाते तदा करैरिन्दो रम्ये भुवनमण्डपे ॥ ११९ ॥ उद्दण्डकामकोदण्डचण्डिमाकान्तविष्टपे । सङ्केतमन्दिरद्वारनिषीददभिसारके ॥ १२० ॥ मानिनी माननिर्णाशविधिव्यासक्तबल्लभे। विचित्ररतसंमर्दकदर्थितनवांगने ॥ १२१ ॥
१ प्रतिप्रहं । २ तिमिरहस्तिना । ३ उदितोऽभूत् । ४ आकाशवने । ५ चन्द्रकिरणैः । ६ कान्तिसमूहैः । ७ चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org