________________
जिनदत्तचरित्रे
जुह्वतस्तस्य तत्राऽभूलाजाशब्दोऽग्नियोगजः। जानेऽहं योग्यसम्बन्धात्साधुकारं शिखी ददौ ॥ १०२॥ धूमपानक्षणोद्भूतास्ते तयोर्बाष्पबिन्दवः । निर्गता वा मनोऽमान्तःकणाः प्रेमरसोद्भवाः ॥१०३॥ तदाऽसौ मौक्तिकोदाममालालंकृततोरणाम् । तयामा वेदिकां प्राप्य भद्रासन उपाविशत् ॥ १०४॥ यान्यक्षतानि नार्योऽयंः ददिरे मस्तके तयोः। कुसुमानीव सौभाग्यमञ्जार्यास्तानि रेजिरे ॥१०५॥ गीतनृत्यादिकं तत्र प्रारब्धं प्रमदाजनैः। पश्यन्तौ यावदानन्दवाधिमग्नौ स्थितौ तदा ॥१०६ ।। निशाविलाससम्पर्को जायतामेतयोरिह । इतीव मन्यमानेन भानुनाऽस्ताद्रिराश्रितः ॥ १०७ ॥ निमिमील तदाऽम्भोजलोचनानि सरोजिनी। दुःखभारात्प्रियस्यैव तां दशामुपजग्मुषः ॥ १०८॥ निशासम्भोगशृङ्गारतत्परा हरिणीदृशः । आसन् गृहे गृहे दूतीसँल्लापव्याकुलास्तदा ॥ १०९॥ प्रससार नभोभूमौ सन्ध्यावल्लीव याऽरुणा। कालेभोत्खाततद्रक्तकन्दाभो भास्करोऽभवत् ॥ ११०॥ प्रकाशितं स्वयं विश्वमाकान्तं तिमिरारिणा। कथं नु शक्यते द्रष्टुमिति भास्वाँस्तिरोद॑धे ॥ १११ ॥
१ अग्निः । २ सप्तम्यकवचनम् । ३ अर्थी क्षत्रियी तथा इत्यमरः। ४ अस्ताचलः । ५ प्राप्नुवतः । ६ सूर्यः। ७ रविः । ८ अदृष्टोऽभूत् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org