________________
द्वितीयः सर्गः।
चारुपौरांगनानेत्रशतपत्रदलाञ्चितः । दीनानाथजनाँस्तन्वन् कृतकृत्यान्समन्ततः ॥ ९२॥ तत्कालोचितयानेन वयस्यैः सहितो मुदा। प्रवृत्तः प्रेमसम्भारभारितो वल्लभामभि ॥९३ ॥ यथाक्रमं कृताशेषविवाहविधिमंगला। तत्राऽसौ वीक्षिता तेन पताकेव मनोभुवः ॥९४॥ तदर्शनाम्भसा सिक्तस्तथाऽस्य प्रेमपादपः। ववृधे शतशाखं स यथाऽमान्न मनोवैनौ ॥ ९५ ॥ चित्तभूरिति मिथ्याऽऽसीढिरेषा सदा स्मरे। यत्तदाऽऽलोकनात्तस्य सर्वाङ्गेभ्यः समुद्ययौ ॥ ९६ ॥ यतो यतस्तदंगेषु चक्षुः क्षितं समुत्सुकम् । ततस्ततः समाकृष्टं चापेनाऽपि मनोभुवः ॥ ९७ ॥ कारयामास चैतस्याः पुरोधाः पाणिपीडनम् । सलज्जाऽलिखदेषाऽपि पादांगुष्ठेन भूतलम् ॥ ९८॥ सालसे समदे मुग्धे स्निग्धे प्राकृतविभ्रमे। गाढोत्कण्ठे सलज्जे चान्तराले बलिते तदा ॥ ९९ ॥ भूमितन्मुखयोर्मध्यं चक्रतुस्तद्विलोचने । शङ्के सिताऽसितानेकनीलोत्पलदलाकुलम् ॥१०० ॥ सार्द्ध तया ततस्तत्र परीयाय हुताशनम् । संगमाद्विरहोद्भूतसन्तापं वा बहिःस्थितम् ॥ १०१॥
१ प्रियासन्मुखम् २ कामस्य ३ यथा मनःपृथिव्यां न मिमीतेस्म ४ चित्ते भवतीति रूढिः कामेऽस्ति सा तदा मिथ्याऽभूत् । ५ पुरोहितः। ६ अलससहिते।
मग्निं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org