________________
जिनदत्तचरित्रे
दत्त्वाऽस्मै कन्यकामेतां कृतकृत्यो भवाम्यहम् । संभाव्यति चकारैषां गौरवं गुणसागरः ॥ ८१ ॥ तातोपान्तगता साऽपि तमद्राक्षीत्पटं सुता। दर्शनादेव चास्याभून्मनोभूशरशल्यिता ॥ ८२ ॥ सान्तमिव तद्रूपं तदा तस्या हृदि ध्रुवम् । यत्तस्य दर्शनात्सापि समभून्निश्चलाऽखिला ॥ ८३॥ सखी बसन्तलेखाऽस्या जग्राहाञ्चलमुत्सुका । अन्तरेऽत्र तया साऽपि हुंकृत्यैव निवारिता ॥ ८४॥ सा ददर्श यथालब्धलक्षं शून्यं जहास च । अस्फुटार्थ जजल्पातस्तातेनाऽज्ञायि तन्मनः ॥ ८५ ॥ आलोच्य बन्धुभिः सार्द्ध कार्यमार्यजनोचितम् । संविभक्ता गतास्तेऽपि सलेखाः श्रेष्ठिना ततः ॥ ८६ ॥ लेखार्थमथ निश्चित्य जिनदत्तपिता स्वयम् । कृत्वा यथोचितां तत्र सामग्री प्राहिणोत्सुतम् ॥ ८७ ॥ प्राप्तः सोऽपि ततश्चम्पामकम्पां रिपुसंहतेः । तर्जयन्तीं ध्वजबातैः पुरन्दरपुरीमिव ॥ ८८॥ तदुद्याने स्थितस्तेन विहितोचितसक्रियः। तत्कालमङ्गलारम्भव्यग्राशेषपरिग्रहः ॥ ८९॥ जातेऽथ समये तत्र समुत्सवशताञ्चिते । संस्नातकल्पितानल्पमाल्याम्बरविभूषणः ॥९॥ गीतनृत्यसमासक्तानन्तसीमन्तिनीजनः।
चतुर्विधमहावाद्यबधिरीकृतदिग्मुखः ॥ ९१ ॥ १ ज्ञातम् । २ अप्रेषयत् ३ । इन्द्रनगरीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org