SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । युक्तं यदत्र पुत्रस्य मनो लीनमजायत । सदस्या दर्शनात्तेऽपि नूनं मुह्यन्ति नाकिनः ॥ ७० ॥ एवम्बिधेऽपि यञ्चित्तं नानुरागभरालसम् । समग्ररसशून्यात्मा नरः पाषाण एव सः ॥ ७१ ॥ सम्भाव्योत समाहूतस्तेनाऽसौ येन शिल्पिना । कृता सा सोऽपि संपृष्टः केयं क्वाऽऽस्ते च कीदृशी ॥७२॥ तेनाभाणि महाभाग ! चम्पायां विमलात्मनः । श्रेष्ठिनो विमलस्येयं विमलादिमतिः सुता ॥ ७३ ॥ वेणीबलयविख्रस्तपुष्पभ्राम्यन्मधुव्रता। कपोलफलकोद्भूतस्वेदबिन्दुचितानना ॥ ७४ ॥ चेलाञ्चलं तथा चारु हारावलिमसौ शनैः । संयम्य सर्वतो बद्धलक्षा मण्डलचारिणी ॥ ७५ ॥ कन्यका कमनीयांगी क्रीडन्ती कन्दुकेन सा। समं सखीभिरालोकि विस्मितेन मया चिरम् ॥ ७६ ॥ आगत्येदं ततः साधो मत्वात्यन्तं मनोहरम् । अत्र तद्रूपमाकल्पि शतांशादिव किञ्चन ॥ ७७ ॥ ततो वितीर्य हृष्टात्मा स तस्मै पारितोषिकम् । जिनदत्तप्रतिच्छंदं लेखयामास तत्पटे ॥ ७८॥ तं समर्प्य ततस्तत्र प्रेषिता वरणाय ताम् । पटिष्टाः श्रेष्ठिना वक्तुं चम्पायां नरसत्तमाः ॥७९॥ तैर्गत्वा दर्शितो लेखः श्रेष्ठिनः सपटस्तदा । मेने तेनाऽपि संसिद्धं तदृष्ट्वाशु समीहितम् ॥ ८० ॥ १ देवाः । २ विमलमतिनाम्नी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy