SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८ जिनदत्तचरित्रे उदन्तं तं समाकर्ण्य रोमाञ्चकवचाञ्चितः । सञ्जहास शनैरास्यं पश्यंस्तेषां मुहुर्महुः ॥ ५९॥ कुण्ठीभवन्त्यऽहो यस्य चेतसो वज्रसूचयः। तस्यापि भेदने शक्ताः कटाक्षाः किल योषिताम् ॥६० । सञ्चिन्त्येति ततस्तांश्च ताम्बूलाम्बरभूषणैः। संविभज्य जगामासौ यत्राऽऽस्ते देहसम्भवः ॥६१ ॥ तं विलोक्य तथाभूतं श्रोष्ठिनेति विचिन्तितम् । दुःसाध्या कार्यसंसिद्धिः कुमारः पुनरीदृशः ॥६२ ॥ विधेर्वशेन नो जाने कार्य स्यादिह कीदृशम् । तथाप्याश्वासयामीति तं जगाद सुतं ततः ॥ ६३ ॥ मुञ्च खेदं महाबुद्धे ! मानसं सकलाः क्रियाः। कुरु स्नानादिकाः शीघ्रं पूरये तव वाञ्छितम् ॥ ६४॥ यदीह राजकन्यापि खेचरी वापि सुन्दरी । उत्सङ्गसङ्गतां पुत्र ! करिष्यामि तथाऽपि ते ॥६५॥ कार्यान्तरं परित्यज्य तथा वत्स ! विधास्यते । मया यत्नो यथा तथ्यो निष्पत्त्यैव भविष्यति ॥६६॥ समाश्वास्येति तं श्रेष्ठी स जगाम तदालयम् । तां विलोक्य ततस्तेन विस्मितेन धुतं शिरः ॥ ६७ ॥ विश्वातिशायिनी कान्ती रूपं विश्वविमोहकम् । लज्जाकरमिदं चास्यलावण्यं विश्वयोषिताम् ॥ ६८ ॥ प्रतिविम्बमिदं यस्याः साऽस्ति काचन सुन्दरी । अष्टमीदृशं रूपं निर्मातुं न हि शक्यते ॥६९॥ १ वृत्तम् । २ पुत्रः । ३ कम्पितम् । ४ मुखलावण्यं । ५ रचयितुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy