________________
द्वितीयः सर्गः।
१७
जलार्द्रश्चन्दनञ्चन्द्रः कर्पूरः शिशिरं पयः। ज्वलत्कामानलस्यास्य संजाता घृतविप्लुषः ॥ ४९ ॥ वरं मरणमेवास्तु मा वियोगः प्रियैः सह । समाप्यन्ते समस्तानि येन दुःखानि सर्वतः ॥ ५० ॥ अदृष्टाऽपि मनोमोहं या ममेत्थं ततान ताम् । पुष्पेषो ! कुरुषे किं न शरसंहतिजर्जराम् ॥ ५१ ॥ इत्यादिकं जजल्पासावसम्बद्धं प्रवन्धतः । एकयाऽपि तया मेने व्याप्तामिव जगत्रयीम् ॥ ५२ ॥ जिगासतस्तदा तस्य पञ्चमेन निवारिताः। हुङ्काराः सन्ततश्वासैः प्रम्लानाधरपल्लवैः ॥ ५३॥ समग्रगुणसम्पूर्ण कर्णशूलकरं परम् । गीतं तेन तदा मेने मनोजज्यौरवोपमम् ॥ ५४ ॥ किञ्च प्रसारयामास भूयोभूयो भुजद्वयम् ।
आलिङ्गितुमिव व्योम भूमिमाशास्तथैव च ॥ ५५ ॥ मूप्रिलापवैवर्ण्यस्वेदरोमाञ्चकम्पितम्। तस्यासीत्सततं गात्रं सन्निपातज्वरादिव ॥ ५६ ॥ इत्यालोच्य ततस्तस्य सुहृदः स्मरसंभवाम् । दशामावेदयामासुराशुं तार्तीय तत्पराः ॥ ५७ ॥ यावन्मानधनोऽद्यापि न याति दशमीमयम् । दशां कन्तोः कुमारस्य कुरु तावत्समीहितम् ॥ ५८ ॥
१ हे काम । २ गातुमिच्छतः । ३ प्रत्वचा। ४ वारंवारम् । ५ शीघ्रम् । ६ जनकाय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org