________________
जिनदत्तचरित्रे ।
एवंविधा यतः सन्ति संसारे रतिभूमयः। विरज्यते ततो नांतो ज्ञाततत्त्वैरपि ध्रुवम् ॥ ३९ ॥ रुद्रादयोऽप्यहो यासां दृष्टिपातोपजीविनः । मादृशां स्मरमुग्धानां मोहने तासु का कथा ॥ ४० ॥ प्रविशामि किमङ्गानि किं स्पृशामि पिबामि किम् । नेत्रपात्ररिमामाशु सौन्दर्यामृतवापिकाम् ॥ ४१ ॥ इत्याधनेकसंकल्पकारिणः सहचारिणा। विज्ञातं मकरन्देन दृष्टया तस्य मनोगतम् ॥ ४२ ॥ विबुद्धं च चिरादेते फलिता मे मनोरथाः। सिक्तश्चायं सुधासेकैः श्रेष्ठिसन्तानपादपः ॥४३॥ . स्मित्वा स्वैरमुवाचममेतयैव सखे ! मनः । किं हृतं भवतो येन स्तम्भितो वा व्यवस्थितः ॥ ४४ ॥ भवानेव विजानातीत्युक्त्वादाय करेण तमें। स विवेश जिनाधीशमन्दिरं तद्गताशयः ॥४५॥ ततः प्रदक्षिणीकृत्य स्तुत्वा स्तोत्रैरनेकशः । जिनाअगाम तां पश्यन्नांकृष्टिक्रममालयम् ॥ ४६॥ स्थतस्तत्र समुद्भूततीव्रवेगस्मरज्वरः। न तल्पे कल्पितानल्पपद्मपल्लवसंस्तरे ॥४७॥ नाशनायाभवत्तस्य नोव्न्या सह निद्रया। विनोदेन न केनापि स रेमे तां तदा स्मरन् ॥४८॥ १ संसारात् । २ मकरन्दनामधेयमित्रेण । ३ आश्चर्यं कृत्वा । ४ मकरन्दं । , यथा कश्चित्पुमान्मन्त्रेणाकृष्टो रुचिं विना क्वापि गच्छति तथाऽयमपि तयाकृष्ट स्वगृहे गतवान् । ६ शय्यायां । ७ पिपासा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org