SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । ..................... कान्तिलावण्यसद्रूपसौभाग्यातिशया इमे । प्रतिच्छन्देऽप्यहो यस्याः सा स्वयं ननु कीदृशी ॥ २९ ॥ कदापि नैव सम्पन्नो विकारो मम चेतसः । एतस्या दर्शनाच्चेयमवस्था मम वर्तते ॥ ३०॥ किमिदं पूर्वसम्बन्धप्रेमदुर्ललितं स्फुटम् । येन जाता ममैवेयमासेचनकदर्शना ॥ ३१ ॥ अथवा वापि कस्यापि पूर्वकर्मविपाकतः। झटित्येव मनो यात नूनं तन्मयतामिव ॥ ३२॥ यदीयं भविता तन्वी मूलप्रकृतिवर्जिता। न प्राणधारणोपायं तदा स्वस्य विलोकये ॥ ३३ ॥ नूनं सचेतनैवेयं कापि कामलताऽथवा । चोरमामास नश्चित्तं चन्द्रास्या कथमन्यथा ॥ ३४ ॥ अचेतने यतो रूपं शोभायै किल केवलम् । सम्बन्धेन विना चेत्थं नानुरागविजृम्भितम् ॥ ३५ ॥ भुज्यते यदि संसारे सौख्यं विषयगोचरम् । तदानन्दनिधानेन सार्द्धमेवंविधेन हि ॥ ३६ ॥ यद्यतया समं नैव भुंजे भोगानदारतम् । हिमम्लानाम्बुजेनेव यौवनेनाऽपि किं मम ॥ ३७॥ करे करोति किं चापमस्यां सत्यां मनोभुवः । इयमेव यतो विश्ववशीकरणसन्माणिः ॥ ३८ ॥ १ प्रतिरूपे । २ दशा । ३ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । लिङ उत्तमपुरुषस्यैकवचनम् । ५ निरन्तरम् । ६ धनुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy