SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे । ततस्तस्य सकामस्य पतिता पादपद्मयोः । दृष्टिम॑ङ्गीव संसक्ता स्पन्दनेऽपि पराङ्मुखी॥ १९ ॥ निधानकलशेनेव नितम्बेन मनोभुवः । कटीतटं समाकृष्टा संप्राप्ता क्रमयोगतः ॥ २० ॥ लावण्यनीरसम्पूर्णे नाभिकुण्डे ममज्ज सा। मदनानलसन्तापपीडितेव ततश्चिरम् ॥ २१ ॥ ताजहार ततस्तस्याः रोमराजिरनुत्तरा। रूपातिशयतो न्यस्ता प्रशस्तिरिव शंभुना ॥ २२ ॥ आचक्राम प्रयासेन प्रस्खलन्ती मुहुर्मुहुः।। मध्यमस्याः कृशोद-स्त्रिबलीभङ्गबन्धुरम् ॥ २३ ॥ स्तनान्तरे ततस्तस्याः सा लीना समजायत । ययौ यथा समस्तांगसंमोहं मुग्धमानसः ॥२४॥ आललंबे मनोहारिहारावलिमसौ शनैः। कण्ठं हि यत्नतः प्राप रेखात्रितयसुन्दरम् ॥ २५ ॥ आललंबेव ततस्तस्याः सा बाहुलतिका क्रमात् । समस्तभुवनभ्रान्तश्रान्तानंगमृगाश्रयम् ॥ २६ ॥ रति कामपि सा लेभे लावण्यातिशयान्विते । मुखेन्दौ मदनोमिदाहशान्त्यार्थनी यथा ॥ २७ ॥ केशपाशे पुनस्तस्याः कामपाश इवापरे। बद्धी मृगीव सात्यन्तं गन्तुमन्यत्र नाशकत् ॥२८॥ १ कामस्य । २ मजतिस्म । ३ निहिता। ४ महादेवेन । ५ सुन्दरम् । ६ विशेषः । ७ न समर्थाऽभूत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy