SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। दर्शनादेव याश्चित्तं मोहंयन्ति यतेरपि । स्नानादिविधये तस्य नियुक्तास्ता मृगीदृशः ॥ ९ ॥ पण्योङ्गनाजना यत्र द्रावयन्ति मुखेन्दुभिः । चेतांसि पश्यतामाशु चन्द्रकान्तमणीनिव ॥ १० ॥ इतस्ततः स्थिताः स्फारशंगाराः स्मरजीवितम् । गमयन्ति गताशंकं छेकॉस्तोनैव तं यथा ॥११॥ युग्मम् । विचित्राणि च वस्त्राणि समं माल्यविलेपनैः । विभूषणैश्च यच्छन्ति प्रत्यहं तस्य ते निजाः ॥ १२॥ ताः कथास्तानि गीतानि तानि शास्त्राणि नॅर्म तत् । कुर्वन्ति सुहृदस्तस्य दीप्यते येन मन्मथः ॥१३॥ प्रारभ्यते पुरस्तस्य परं प्रेक्षणकं च तत् । रागसागरकल्लोलैः प्लान्यन्ते येन देहिनः ॥ १४ ॥ अथैकदा जगामासौ नित्यमण्डितसंज्ञितम् । वयस्यैः सहितस्तुंगं कोटिकूटं जिनालयम् ॥ १५ ॥ सोपानपदवीं दिव्यां समारुह्य ततः स्थितः। ददर्श क्षणमात्रं स द्वारमण्डपमुत्तमम् ॥ १६ ॥ यावत्तत्र जगत्सारशिल्पिकल्पितरूपके । दत्तदृष्टिरसौ तावदृष्टैका शालभंजिका ॥ १७ ॥ तस्या दर्शनमात्रेण चित्रन्यस्त इव स्थितः । पपौ रूपामृतं चास्याः स्तिमितायतलोचनः ॥ १८ ॥ १ मोहं प्रापयन्ति । २ वेश्यागणाः । ३ कामिनः । ४ लीला क्रीडा । कामः । ६ " पुतली ” इति भाषया ख्याता। ७ निश्चलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy