________________
१२
जिनदत्तचरित्रे।
द्वितीयः सर्गः।
दधानस्यापि तस्याथ यौवनं नयनामृतम् । बभूव मानसं नित्यं नारीसुखपराङ्मुखम् ॥१॥ काव्यामृतरसास्वाइविनोदेन कदाचन ।। वौदजल्पवितण्डादिचर्चया चतुरोऽन्यदा ॥२॥ वाहनेन तुरंगाणां शास्त्राभ्यासेन कर्हिचित् । परीक्षणेन रत्नानां साधूनां सेवयान्यदा ॥ ३॥ पूजोत्सवैजिनेन्द्राणां राजकार्यैः कदापि च । इत्यादिचारुचेष्टाभिरसक्तो विषयेष्वसौ ॥४॥ समस्तसुखसम्पत्तिसमृद्धो बुधवल्लभः। दिनानि गमयामास बयस्यैः सहितो मुदा ॥ ५॥ विमुखं तं ततो ज्ञात्वा तस्मिन दारपरिग्रहे । सबन्धुर्विदधे यत्नं सूनो रंजयितुं मनः ॥६॥ यत्र चित्ररतक्रीडारसिकानि विलासिनाम् । मिथुनानि निषीदन्ति तेषानेषु नीयते ॥ ७ ॥ क्रीडत्कान्तास्तनाभोगसङ्गसङ्क्रान्तकुंकुमाः। वापीः पद्माननास्तस्य दर्शयन्ति जना निजाः ॥८॥
१ वादजल्पवितण्डालक्षणानि यथा-आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाऽऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ? । विजिगीषुकथा या तु छलजात्यादिदषणम् । स जल्पः सा वितण्डा च या प्रतिपक्षवर्जिता ॥२॥ २ मित्रः। ३ तिष्ठन्ति । ४ उपवनेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org