SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । शस्त्राण्यपि ततस्तेन विज्ञातानि महात्मना । धनुरादीनि यत्नेन समाराध्याशु तद्विदः ॥ ९३ ॥ प्रागल्भ्यं किमपि प्राप व्यवहारविधौ तथा । यथा तातादयस्तस्य जाताः प्रज्ञानुजीविनः ॥ ९४ ॥ तनौ तस्य ततश्चक्रे यौवनेन तथा पदम् । अनङ्गेन यथा स्त्रीषु संमोहायुधमादधौ ॥ ९५ ॥ गगनमिव सितांशो रश्मिभिः सत्तपोभितिरिव नरनाथो न्यायमार्गैरुपेतः । तरुरिव नवपुष्पै राजहंसैः समन्तात् सर इव शुशुभेऽसौ विभ्रमै यौवनस्य ॥ ९६ ॥ सकलसुभगसीमा माननीयों जनानां जिनपतिपदभक्तो भव्यवात्सल्यसक्तः । कुलकमलविवस्वान्कीर्तिवीचीसरस्वाननुपमगुणरा शिश्चन्द्रसौम्यो ननन्द ॥ ९७ ॥ इति श्रभिगवद्गुणभद्राचार्य्याविराचेते जिनदत्तचरित्रे प्रथमः सर्गः ॥ १ १ चातुर्यम् । २ वशीकरणशस्त्रम् । ३ रविः । ४ सागरः । Jain Education International ११ For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy