________________
१०
जिनदत्तचरित्रे।
पूर्णेऽथ समये साध्वी प्रसूता सुतमुत्तमम् । प्राचीव भास्कराकारं प्रभाते बालभास्करम् ॥ ८३॥ श्रेष्टिना वाञ्छितादुच्चैरधिकं मुदितात्मना। दत्तं वक्रमनालोक्य पुत्रजन्मनिवेदिनम् ॥ ८४ ॥ नृत्तवादित्रसङ्गीतमयमाशु समन्ततः । तदात्या विनवाशु तद्बभूव पुरं तदा ॥ ८५ ॥ स न कोऽपि नरस्तत्र यो नानन्दभरालसः । समभूद्याचको वापि यो न पूर्णमनोरथः ॥ ८६ ॥ जातकर्म कृतं तस्य सोत्सवं सकलं ततः। यथाक्रमं पुनश्चक्रे पूजयित्वा जिनेश्वरान् ॥ ८७ ॥ जिनदत्ताभिधां तस्य बन्धुवृद्धैः समन्वितः। कृतकृत्यमिवात्मानं मेनेऽसौ नैगमाधिपः ॥ ८८ ॥ ववृधे बन्धुपद्मानामानन्दं विदधत्परम् । उपविन्दन् कलाश्चित्रं कोऽपि बालदिवाकरः ॥ ८९ ॥ तत्यजेऽभ्मोजगर्भाभं तनुजातेन शैशवम् । शनैः शनैः सदाचारपुरुषेणैव कैतव॑म् ॥ ९०॥ ततोऽसौ श्रेष्ठिना तेन श्रावकस्य महामतेः । समर्पितः प्रयत्नेन पठनाय यथावधि ॥ ९१ ॥ . वासरैगणितैरेव सर्वशास्त्रमहार्णवम् । स ततार महावृद्धिनावा विनयसङ्गतः ॥९२॥
१ मुखम् । २ वसन्तपुरम् । ३ नाम चक्रे इति क्रियाध्याहारः । ४ वणिजां पतिः श्रेष्ठी । ५ लभमानः । ६ पुत्रेण । ७ कपटं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org