________________
प्रथमः सर्गः ।
उल्लासं कर्मपि प्राप तेन सा वचसा यतेः । धर्मान्ततोयदोन्मुक्ततोयेनेव लता तदा ॥ ७३ ॥ महाविस्मयसम्पन्ना सा शशंस सभा मुनिम् ! नत्वा ज्ञातयथाभाविवृत्तान्ता साप्यगाद्गृहम् ॥ ७४ ॥ किंवदंत्या तथा चक्रे श्रेष्ठिनोऽपि मनस्तदा । अनल्पकालसम्पन्न सफलाशेषवाञ्छितम् ॥ ७५ ॥ अथ केष्वपि जातेषु वासरेषु बभार सा । गर्भमभ्रलवच्छन्नभानुविम्बमिवेन्द्रदिक् ॥ ७६ ॥ गुणानामिव भारेण गर्भस्थस्य शिशोस्तदा । मन्दं मन्दं महीपीठे विचक्रॉम मृगेक्षणा ॥ ७७ ॥ मलीमसमुखौ जातौ स्तनौ तस्याः समुन्नतौ । तदुत्पादादिव स्वस्य मन्यमानावधःस्थितिम् ॥ ७८ ॥ गर्भस्थयश सेवास्याः पाण्डुताऽजनि गण्डयोः । तेजसेव भ्रुवोश्चक्रे सोत्क्षेपं वचनक्षणे ॥ ७९ ॥ रोमराजिस्तदा तस्यास्तथाऽभूद्बहिरुद्गता । शङ्केऽहं पूर्वसन्तापशिखिधूमशिखैव सा ॥ ८० ॥ जृम्भारम्भो मुखे तस्या विशेषात्समजायत । उष्मणेव तदा तस्य महाभागस्य तेजसाम् ॥ ८१ ॥ पूजोत्सवे जिनेंद्राणां दौहृदं विदधे सुधीः । प्रफुल्लवदनाम्भोजं बन्धुवर्गे च सर्वतः ॥ ८२ ॥
१ अपूर्व । २ आषाढे मेघोन्मुक्तजलेन । ३ लोकवार्तया । ५ विहरतिस्म । ६ दुःखाभिधूमशिखा ।
Jain Education International
For Private & Personal Use Only
४ प्राची
www.jainelibrary.org