SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे। नाममात्रेण सा स्त्रीति गुणशून्येन कीर्त्यते । पुत्रोत्पत्यानया पूता यथा शक्रवधूटिका ॥६३॥ प्रसादोऽपि न मे भर्तुः शोभायै सूनुना विना। शब्दानुशासनेनैव विद्वत्ताया विजृम्भितम् ॥ ६४ ॥ साहं मोहतमश्छन्ना निशेवोद्वेगदायिनी। दीयते यदि नो पुत्रप्रदीपः कुलवेश्मनि ॥६५॥ चिन्तयन्तीति सा बाला कपोलन्यस्तहस्तका । पातयामास सभ्यानां नेत्रभृङ्गान मुखाम्बुजे ॥ ६६ ॥ पेतुर्यथायथा तस्याः सुभ्रुवो बाष्पबिन्दवः । भेजुस्तथातथा दुःखं मानसानि सभासदाम् ॥ ६७ ॥ सभां विस्मयसम्पन्नां तां च दुःख भरालसाम् । अथालोक्य जगादासौ कृपयति यतीश्वरः ॥६८॥ विशुद्धहृदये ? कार्षीः शोकसागरमजनम् । मा वृथैव यतः शीघ्रं सफलास्ते मनोरथाः ॥ ६९ ॥ निशाकरकराकारकर्तिव्यातजगत्रयः । गाम्भीर्यौदार्यशौण्डीर्यसौन्दर्यकुलमन्दिरम् ॥ ७० ॥ त्रिवर्गरचनासूत्रधारस्तव तनूरुहः । समग्रगुणमाणिक्यरोहणादिरिवापरः ॥ ७१ ॥ भद्रं भूषयिता भव्यो गगनं भानुमानिव । कुलं कतिपयैरेव वासरैः साधुवत्सले ! ॥७२॥ विशेषकम् । १ इन्द्रगोपा । २ व्याकरणशास्त्रेण । ३ प्रसरणं । ४ मा कार्षीः मा कुरु । विधेहि, माङ् योगेऽडाटौ न भवतः । ५ शौर्यम् । ६ सूत्रं प्रयोगानुष्ठानधारयतीति सूत्रधारः । ६ पुत्रः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy