________________
प्रथमः सर्गः ।
खनिरौचित्यरत्नानां विनयद्रुममञ्जरी। सतीव्रतपताकेव पश्यतां मोहनौषाधः ॥५३ ॥ . केलिकोपान्तरायं स भुंजनः सुखमुत्तमम् । दिनानि गमयामास धर्मार्थार्जनकोविदः ॥ ५४ ॥ गृहीतगन्धपुष्पादिप्रार्चना सपरिच्छेदा । अथैकदा जगामासौ प्रातरेव जिनालयम् ॥ ५५ ।। त्रिःपरीत्य ततः स्तुत्वा जिनांश्चचतुराशया। संस्नाप्य पूजयित्वा च प्रयाता यतिसंसदम् ॥ ५६ ॥ अस्ति यत्र समस्तार्थभासी दिव्यावधीक्षणः । गुणचन्द्रगणाधीशो भव्याम्भोरुहभास्करः ॥ ५७॥ तं ससंघ ततो नत्वा निविष्टा निकटे ततः। कथ्यमानां प्रसङ्गेन कथां पौराणिकी तदा ॥ ५८ ॥ शुश्राव तां कृता यस्यां प्रशंसा पुत्रतः स्त्रियांम् । अपुत्राणां प्रबन्धेन निन्दात्पत्तिरापि ध्रुवा ॥ ५९॥ युग्मम् । तां निशम्य महाशोकशङ्कनेव हता हृदि । चिन्तयामास साध्वीति वाष्पपूर्णविलोचना ॥६०॥ अशोकस्तबकनेव यौवनेन ममामुना। रागिणा केवलं किन्तु न यत्र फलसम्भवः ॥ ६१ ॥ वारिधेरिव लावण्यं विरसं मम सर्वथा। न यत्रापत्यपद्मानि तेन कान्तजलेन किम् ॥ ६२॥
१ वशकारिणी । २ सपरिवार । जीवंजसा । ४ पुराणसम्बन्धिनीं । ५ षष्ठीबहुवचनं । ६ कीलकेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org