SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १ जिनदत्तचरित्रं । नयनाली न रेमाते तां विहाय महीभृतः । स्वभावसुकुमाराङ्गीं मार्कन्दस्येव मञ्जरीम् ॥ ४३ ॥ अथ तत्रैव सद्धर्मनरिनिद्धतपातकः । जीवदेव इति श्रेष्ठी बभूव वणिजां पतिः ॥ ४४ ॥ नार्थानां बहुभेदानां संङ्ख्यानं यस्य वेश्मनि । विज्ञातं वाग्विलासे वाँ संप्रकाशे महाकवेः ॥ ४५ ॥ पूजया जिननाथनामतिथीनां विहाय तैः । दीनादिकृपया चापि यत्समोऽजनि नापरः ॥ ४६ ॥ असत्यवचनं लेभे जिह्वाग्रे यस्य नास्पदम् । मानसेवा महासत्यं दुराचारविजृम्भिणाम् ॥ ४७ ॥ निरन्तरसदाचारनीरधाराभिषेकतः । वृधे विदुषा येन शश्वत्सज्जनतालता ॥ ४८ ॥ सद्मानि येन जैनानि कारितानि विरेजिरे । सुधासितानि तुङ्गानि मूर्तिमन्ति यशांसि वा ॥ ४९ ॥ भोगभौमं स्वभोगेन धनदं धनसम्पदा । यो जिंगाय महाभागो याचकामरभूरुहः ॥ ५० ॥ जीवंज सेति विख्याता तस्यासीत्सहचारिणी । यथा ज्योत्स्ना शशाङ्कस्य दया संयमिनो यथा ॥ ५१ ॥ विशुद्ध भयपक्षा या राजहंसीव मानसम् । मुमोच तस्य न स्वच्छं गम्भीरच कदाचन ॥ ५२ ॥ १ रमेतेस्म । २ आम्रस्य । ३ अत्र वा इति शब्द इवार्थे । ४ याचकेभ्यः कल्पतरुः । ५ प्रिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy