SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । राजविद्याश्चतस्रोऽपि भासयामास शेमुषी। विभेव भास्वंतो यस्य ककुंभः सहसंभवाः ॥ ३३ ॥ पिप्रिये प्रणतानन्तसामन्तैः स तथा न हि। यथा स्वयं जगद्वन्धमुनीन्द्रपदवन्दनैः ॥ ३४॥ ईर्ष्या स्वभावतः स्त्रीणामिति मिथ्या कृतं श्रिया। मेदिनीसुखसक्तेऽपि यत्तत्र रसिका स्वयम् ॥ ३५ ॥ स्वरूपसम्पदा जिग्ये यया मदनसुन्दरी। समभूदल्लभा तस्य नाम्ना मदनसुन्दरी ॥ ३६ ॥ यस्याः सौन्दर्यमालोक्य विस्मिताः सुरयोषितः । नूनमद्याऽपि नो जाताः सनिमेषविलोचनाः ॥ ३७ ॥ सर्वाङ्गरमणीयाया व्यवधानं विभूषणैः । कोमलाङ्गयाः कृतं कान्तर्यस्याः सारङ्गचक्षुषः ॥ ३८ ॥ लीलाकमलमुलंध्य यस्या मुखसरोरुहे । निपपात महामोदादिन्दिन्दिरैपरम्परा ॥ ३९॥ यस्या मुखेन्दुना साम्यं मन्ये प्रापयितुं शशी। क्रियते कीर्यतेऽद्यापि धात्रा धौतान्यपक्षयोः ॥ ४० ॥ दधाना नवलावण्यं प्रवालाधरपल्लवा । शृङ्गारवारिधेला विधिना विहितेव या ॥ ४१ ॥ यया मुक्ताभिरामान्तर्निर्मला गुणसङ्गता। हृदि हारलतेवोच्चैः सदृष्टिर्निदधे परी ॥ ४२ ॥ १ बुद्धिः । २ रवेः । ३ दिशः । ४ प्रसन्नोऽभवत् । ५ मृगलोचनायाः । ६ भ्रमरणिः । ७ विक्षिप्यते । ८ विधिना । ९ कृता। १० उत्कृष्टा । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy