SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे । winnr चित्रं विचित्रकूटाऽपि जिनसद्मपरम्परा । मानोन्नता निहन्त्याशु यस्मिन् पापानि पश्यताम् ॥२२॥ जालावलम्बिशीतांशुकरस्पर्शः सुखावहः । प्रत्यक्षेऽपि प्रिये स्त्रीभी रतान्ते यत्र सेव्यते ॥ २३ ॥ यान्तीनां यत्र सङ्केतनिकेतं निशि योषिताम् । निजाभरणभाभारप्रसरो विघ्नकारकः ॥ २४ ॥ नित्यं सत्त्यागसम्पन्ना जना यत्र विमत्सराः। एकान्तसञ्चितद्रव्यं लज्जयन्ति धनाधिपंम् ॥ २५ ॥ पद्मरागप्रभाजाललिप्ताङ्गी मणिकुट्टिमे । शङ्कते कामिनी यत्र कर्तु कुंकुममण्डनम् ॥ २६ ॥ भुजंगसङ्गतो यस्य न समश्चन्द्रशेखरः । बभूव भूपतिस्तत्र नाम्ना श्रीचन्द्रशेखरः ॥ २७ ॥ नूनं निवेशिता कान्तिस्तत्तनौ विधिना पुरा। मध्यादिन्दोः कथं तत्र कलङ्ककिणताऽन्यथा ॥ २८ ॥ बभूव भुवने यस्य कीर्तिः कुन्देन्दुनिर्मला। दिगङ्गना यया रेजुः सहारलतिका इव ॥२९॥ विच्छिन्नमण्डलाभोगा विकला क्षणनाशिनी। यस्यारिसंहतिर्जाता मूर्तिरिन्दोरिवादिमा ॥ ३० ॥ तीव्रप्रतापसम्पन्नो यो जगत्तापनाशनः।। अविग्रहोऽपि सर्वाङ्गसौन्दर्यजितमन्मथः ॥ ३१ ॥ कामार्थयोस्तथा भूपो यः कदापि न मोदते। जिनोदिते यथा धर्ममार्गे नित्यमतन्द्रितः ॥ ३२॥ १ कुवेरम् । २ नृपशरीरे । ३ अन विरोधाभासालङ्कारः । ४ तन्द्रारहितः । Jain Education International For Private & Personal Use Only ____www.jainelibrary.org WWW.
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy