SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। खन्याकरसमुत्थानं दधाना बहुधा धनम् । जाता वसुमती यत्र यथार्थेयं समन्ततः ॥ १३॥ राजते जनता यत्र जिनधर्मरता सदा। दारिद्र्यदुर्नयातङ्कभीतीतिभिरसंगता ॥ १४॥ कल्याणभूमयो यत्र जिनानां विहितोत्सवाः । भक्त्यागंतामरैर्भान्ति पापापोहनपण्डिताः ॥ १५ ॥ मध्येऽस्ति तस्य देशस्य वसन्तादिपुरं पुरम् । निर्भसितामराधीशनगरं निजशोभया ॥ १६ ॥ महीप्रवेशमाविश्य चौरेणेव पयोधिना। खातिकाव्याजतो ववे यद्रत्नहरणेच्छया ॥ १७ ॥ यत्समदीर्घिकापंझैः विकाशो नाप्यते स्फुटम् । प्राकारकोटिसंरुद्धदिवाकरकरत्वतः ॥ १८॥ यत्कामिनीकपोलानां कान्ति हर्तुमिवेन्दुना । क्षालनाय कलङ्कस्य भ्राम्यते सौधसन्निधौ ॥ १९ ॥ सुदर्शनकृतानन्दाः सत्यासक्ताः समाः सदा । प्रद्युम्नमोदिनो यत्र समाना विष्णुना जनाः ॥ २० ॥ यन्नौरीनयनापाझरङ्गेऽनङ्गेन वल्गता। वासो निःसंशयं चक्रे शान्तानामपि मानसे ॥ २१ ॥ १ वसु धनं विद्यते यस्यां सा वसुमती तत्र धनमासीदेव यतः यथार्था वसुमती जाता। २ भक्त्यागतदेवैः । ३ पापनाशनचतुराः। ४ वसन्तपुरम्। ५ स्वर्गतिरस्कारक। ६ चन्द्रमसा। ७ भ्रमणं क्रियते। ८ हाणां समीपे । ९ कृष्णपक्षे सुदर्शनचक्रम् जनपक्षे श्रेष्ठदर्शनम् । १० कृष्णस्तु सत्यभामासक्तः नामैकदेशेन सर्वनाम्नोऽपि ग्रहणम् , जनास्तु सत्यभाषणासक्ताः। ११ कृष्णस्तु प्रद्युम्नाख्यसुतमोदी जनाश्च काममोदिनः । १२ नारीणां कटाक्षच्छटयाशान्तानामपि मनांसि चलितानीतिभावः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy