SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे | मालिन्योद्योतयोर्हेतू असत्सन्तौ स्वभावतः । गुणानां न तयो निन्दास्तुती तेन तनोम्यहम् ॥ ४ ॥ मनो मम चतुर्वर्गमार्गमुक्ताफलोज्ज्वलाम् । जिनदत्तकथाहारलतिकां कर्तुमीहते ॥ ५ ॥ अथास्ति भरतक्षेत्रे जम्बूद्वीपस्य दक्षिणे । श्रीमानंगाभिधो देशो देवावास इवापरः ॥ ६ ॥ क्रीडामत्तामरा यत्र कोपयन्ति स्वकामिनीः । उद्यानेषु विलासादयवनपालीविलोकिनः ॥ ७ ॥ सविभ्रमाः सपद्माश्च सर्वसेव्यपयोधराः । कुटिला यत्र राजन्ते नद्यः पण्याङ्गना इव ॥ ८ ॥ पन्थानं पथिका कामं नाक्रमन्ति समुत्सुकाः । अपि यद्गोपिकाकान्तरूपासक्ताः पदे पदे ॥ ९ ॥ भान्ति यत्र भुवो ग्राम्याः सर्वतः खलसंकुलाः । समृद्धिभिस्तथाप्युच्चैः सज्जनानन्दहेतवः ॥ १० ॥ निगमानां नचान्योन्यं यस्मिन् सीमावगम्यते । निष्पन्नैः सर्वतः सर्वसस्य जातैर्निरन्तरैः ११ ॥ सच्छायाः प्रोन्नता यत्र मार्गस्थाश्च विजातिभिः । सेव्यन्ते पादपा युक्तमेतन्ननु कुजन्मनाम् ॥ १२ ॥ १ दुर्जनसज्जनौ । २ इच्छति । ३ स्वर्ग इव । ४ नयस्तु हंसादिपक्षिसहिता जलभ्रमणसहिताश्च वेश्यापक्षे सकटाक्षाः नद्यस्तु सकमलाः वेश्यापक्षे सलक्ष्म्यः नद्यस्तु सर्वजनभोग्यजलधारिण्यः वेश्यापक्षे सर्वजनसेव्यकुचाः पण्याङ्गनात्वात् ५ ग्रामसम्बन्धिन्यो भुवः । ६ कुजन्मानो प्राणिनः विजातिभिरेव सेव्यन्ते कुजन्मा नस्तरवस्ते नानापक्षिभिः सेव्यन्त एव । कुः पृथ्वी वयः पक्षिणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy