________________
श्री परमात्मने नमः । श्रीमद्गुणभद्राचार्यविरचितं जिनदत्तचरित्रम् ।
प्रथमः सर्गः।
महामोहतमश्छन्नभुवनाम्भोजभानवः । सन्तु सिद्धयङ्गनासङ्गसुखिनः संपदे जिनाः ॥ १ ॥ यदायत्ता जगद्वस्तुव्यवस्थेयं नमामि ताम् । जिनेन्द्रवदनाम्भोजराजहंसीं सरस्वतीम् ॥ २॥ मिथ्याग्रहाहिना दष्टं सद्धर्मामृतपानतः । आश्वासयन्ति विश्वं ये तान् स्तुवे यतिनायकान् ॥ ३॥
१ महामोहान्धकाराच्छादितत्रैलोक्यकमलसूर्याः । २ सर्पण । ३ जीवयन्ति ४ जगत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org