Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 46
________________ चतुर्थः सर्गः। रक्षात्मानं महाभाग निजमाहात्म्ययोगतः । त्वादृशो हि महासत्त्वो दुर्लभो भुवने यतः ॥ ३२॥ इत्थं सम्भावितो राज्ञा दृष्टिगोचरमाप सः। कुमारीभुवनं भन्यो भूतसंघातभीतिदम् ॥ ३३॥ आरुरोह ततस्तत्र प्रथमां भूमिमुन्नताम् । आलुलोके च तत्रासौ दिक्चतुष्कं शनैः शनैः ॥ ३४ ॥ द्वितीयस्यामसौ दृष्टा चारुपल्यंकसङ्गता। सविकासविषादिभ्यां ग्भ्यां द्वारावलोकिनी ॥ ३५॥ तत्रालोक्य दिशः सर्वास्तदासन्ने व्यवस्थितः । स तल्पेऽनल्पकल्याणभाजनस्थामुवाच सः ॥ ३६ ॥ साऽपि संभाषणात्तस्यामस्ताऽऽत्मानं मृगेक्षणा। कृतकृत्यमिवाऽऽत्मानं हृष्टः सोऽपि तदक्षिणात् ॥ ३७ ॥ ताम्बूलादिकमादाय तया दत्तं विचक्षणः । पृष्टः प्रारब्धवानेष कथां कर्णसुधास्पदाम् ॥ ३८ ॥ यावत्तस्याः समायाता निद्रा मुद्रितचेतसः । हुङ्कारस्य विरामेण सुप्तां ज्ञात्वोत्थितश्च सः॥ ३९ ॥ चिन्तितं च किमत्राहो मरणे कारणं नृणाम् । किमेषा पूतना प्रायः किं वा रक्षोविजृम्भितम् ॥ ४० ॥ अन्यद्वाऽस्तु यथाकाममप्रमत्तो भवाम्यहम् । जागरूको न यो लोके तस्करैर्मुष्यते ध्रुवम् ॥ ४१ ॥ इत्यालोच्य समानीय मृतकं पृष्ठभूमितः। आरोप्य शयनीये च प्रच्छाद्य वरवाससा ॥ ४२ ॥ ३ अमन्यत । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102