________________
जिनदत्तचरित्रे
धर्मस्तद्वदनाम्भोजनिर्गतः सुगतिप्रदः । यस्य मूलं समस्तार्थसाधिका करुणा मता ॥ ८८ ॥ कृतं किमपि पूर्णेन्दुवदने दयया समम् । विद्धं रसेन वा तानं सर्वकल्याणकारकम् ॥ ८९ ॥ उद्देशाद्देवतादीनां कृतोऽपि प्राणिनां बधः ।। नरकाय गुडोन्मिश्रं विषं मारयते न किम् ॥ ९० ॥ जायते येन येनेह हेतुनाऽसुमतां हतिः । तत्तद्वर्जय बाले त्वं येन स्यान्निस्तुषो वृषः ॥ ९१ ॥ अत्र चामुत्र सौख्यानि भुंजते यानि देहिनः । कृपाकल्पलता तानि सूते सर्वाणि सेविता ॥ ९२ ।। वितस्त्या मीयते जातु नभो भूरंगुलैरियम् । शक्याः सुमुखि संख्यातुं न गुणाः करुणाश्रयाः ॥ ९३ ॥ करभोरु परित्यज्य प्राणित्राणं न विद्यते । धर्मः शर्मकरः प्रोक्तो न च सोऽन्यैर्जिनेन्द्रतः ॥ ९४ ॥ नानाऽनुष्ठानयुक्तापि नादया शस्यते क्रिया। कामिनीव धृताशेषभूषणा कुलटा किल ॥ ९५॥ भवभोगशरीराणामसारत्वं विबुद्धय ये। सन्त्यज्य तृणवल्लक्ष्मी नैर्ग्रन्थ्यव्रतमाश्रिताः ॥ ९६ ।। प्राणात्ययेऽपि नो येषां जीवहिंसा वचोऽनृतम् । चुरा रामॉरिरंसा वा जिघृक्षा हृदि जायते ॥ ९७ ॥
१ प्राणिनां । २ श्रेष्ठः । ३ वितस्तिप्रमाणेन। '४ ज्ञात्वा । ५ जिनदीक्षां । ६ नोर्यम् । ७ स्त्रीरमणेच्छ। । ८ ग्रहीतुमिच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org