SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । लाभालाभारिमित्रेषु लोष्टकांचनयोरपि। समभावाः सुखे दुःखे निस्पृहाः स्वतनावपि ॥ ९८ ॥ अनेकजन्मसम्भूतं पापपङ्क शरीरिभिः । यत्पादपद्मसत्तीर्थसेवया क्षाल्यते क्षणात् ॥ ९९ ॥ भुंजते पाणिपात्रेण शेरते भुवि वाऽऽसते । वनादौ विधिवद्धंसध्यानेनाऽध्ययनेन च ॥१०॥ ये करालम्बनं सम्यक् संसारार्णवमज्जताम् । जगतां जातरूपास्ते गुरवो गजगामिनि ॥१०१ ॥ कामक्रोधमदोन्मादमोहान्धा विषयाधिकाः। यान्तो नयन्ति भक्तांस्तु गुरुत्वेनाध एव हि ॥ १० ॥ देवधर्मगुरूनित्थं मन्यमाना मनस्विनि । लोकद्वयऽपि सौख्यानां भाजनं भविता सदा ॥ १०३॥ निबन्धनमिदं सर्वव्रतानां देर्शनं प्रिये । विनतेन विमूलः स्यात्समस्तनियमद्रुमः ॥ १०४ ॥ विशेषतस्तु नात्तव्यं मदिरामाँसमाक्षिकम् । अनन्तजीवसंहारकारि पापैकसाक्षिकम् ॥ १०५ ।। जीवयोनिसमुत्थानं फलानामपि पंचकम् । मुंच भुक्तिं निशायां च चरैतानि व्रतानि च ॥१०६ ॥ जीवघाताऽनृतस्तेयपुरुषान्तरसंवनम् । परिग्रहममानं च त्यज राजीवलोचने ॥ १०७ ॥ पात्रं सर्वश्रियां पात्रदानं भोगोपभोगगाम् । संख्यामसंख्यदुर्भावभेदिनीं धेहि मानसे ॥१०८॥ दिगम्बराः २ सेवकान् ३ तत्त्वार्थश्रद्धानं ४ कमलनयने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy