________________
४८
जिनदत्तचरित्रे
सर्वसङ्ग परित्यज्य संस्मृत्य गुरुपंचकम् । आराधनाविधानेन प्रान्ते प्राणोज्झनं मतम् ॥ १०९ ॥ दिग्देशनियमं दुष्टाऽनर्थदण्डोज्झनं कुरु । सामायिकं हताघौघं प्रोषधं दुःखनाशकम् ॥ ११० ॥ एतेषु गुणशिक्षाद्या नियमा द्वादशव्रतम् । पंचं त्रयश्च चत्वारो गृहस्थानां जिनोदिताः ॥ १११ ॥ गुरुणां वचनादेतत्त्वावादि मया प्रिये । पश्चात्ते दापयिष्यामि विशेषागुरुसन्निधौ ॥ ११२ ॥ इत्यादि सा कुमारेण जिनधर्म विशुद्धधीः । ग्राहिता साऽपि जग्राह तं तथेति त्रिधा तदा ॥ ११३ ॥ इत्थं तथा निखिल सौख्यनिधानधात्र्या
धन्यः समं कुतुककोपकृतान्तरायम् । सौख्यं स निर्विशति यावदितः कृतार्थ -
स्तावच्चचाल सकलो वणिजां समूहः ॥ ११४ ॥ ज्ञात्वाऽपि तेन भणितो नृपतिः सहेतु
र्लोकः प्रयाति सकलोऽपि मम स्वदेशम् ।
मां प्रेषयेति वचनेन नृपः सदुःख
स्तस्मै समय तनयां सपरिच्छदां ताम् ॥ ११५ ॥ त्रिंशदस्ति भुवि यस्य सुवर्णकोट्यो मूल्यं तदस्य किल कण्ठविभूषणं च ।
दत्वा नृपेण बहुधा वसनादिजात
मालिङ्गय साश्रुनयनेन ततो विमुक्तः ॥ ११६॥
१ प्राणत्यागः । २ पञ्चप्रकारमणुव्रतं, त्रिधा गुणवतं, चतुर्धा शिक्षाव्रतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org