Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 21
________________ जिनदत्तचरित्रे । एवंविधा यतः सन्ति संसारे रतिभूमयः। विरज्यते ततो नांतो ज्ञाततत्त्वैरपि ध्रुवम् ॥ ३९ ॥ रुद्रादयोऽप्यहो यासां दृष्टिपातोपजीविनः । मादृशां स्मरमुग्धानां मोहने तासु का कथा ॥ ४० ॥ प्रविशामि किमङ्गानि किं स्पृशामि पिबामि किम् । नेत्रपात्ररिमामाशु सौन्दर्यामृतवापिकाम् ॥ ४१ ॥ इत्याधनेकसंकल्पकारिणः सहचारिणा। विज्ञातं मकरन्देन दृष्टया तस्य मनोगतम् ॥ ४२ ॥ विबुद्धं च चिरादेते फलिता मे मनोरथाः। सिक्तश्चायं सुधासेकैः श्रेष्ठिसन्तानपादपः ॥४३॥ . स्मित्वा स्वैरमुवाचममेतयैव सखे ! मनः । किं हृतं भवतो येन स्तम्भितो वा व्यवस्थितः ॥ ४४ ॥ भवानेव विजानातीत्युक्त्वादाय करेण तमें। स विवेश जिनाधीशमन्दिरं तद्गताशयः ॥४५॥ ततः प्रदक्षिणीकृत्य स्तुत्वा स्तोत्रैरनेकशः । जिनाअगाम तां पश्यन्नांकृष्टिक्रममालयम् ॥ ४६॥ स्थतस्तत्र समुद्भूततीव्रवेगस्मरज्वरः। न तल्पे कल्पितानल्पपद्मपल्लवसंस्तरे ॥४७॥ नाशनायाभवत्तस्य नोव्न्या सह निद्रया। विनोदेन न केनापि स रेमे तां तदा स्मरन् ॥४८॥ १ संसारात् । २ मकरन्दनामधेयमित्रेण । ३ आश्चर्यं कृत्वा । ४ मकरन्दं । , यथा कश्चित्पुमान्मन्त्रेणाकृष्टो रुचिं विना क्वापि गच्छति तथाऽयमपि तयाकृष्ट स्वगृहे गतवान् । ६ शय्यायां । ७ पिपासा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102