Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 32
________________ तृतीयः सर्गः। २७ तन्मुखाम्भोजसंसक्तलोचना कुचमण्डलम् । काचिच्च्युतांशुके दृष्टिं पातयामास पश्यताम् ॥ २० ॥ वेगतो धावमानान्या स्रस्तमेखलयाऽस्खलत् । त्रुटितं हारमप्यन्या गणयामास नोत्सुका ॥ २१ ॥ अन्या जघान तं धीरा कटाक्षः क्षणमंगना । चित्रेन्दीवरमालाभिरर्चयन्तीव भक्तितः॥ २२ ॥ रूपामृतं पिबत्यस्य नेत्राउजलिपुटैः परा।। कौतुकं कामसन्तापपीडिताऽजनि मानसे ॥ २३ ॥ अन्यावोचदियं धन्या यस्या जातोऽयमीश्वरः । काचिदूचे स्फुटं कामरतियुग्ममैदः सखि ! ॥ २४॥ समाशतं सति श्रेष्ठं विलाप्त सहिताऽमुना। भुङक्ष्वेति प्रणिर्गद्याऽन्या लाजाञ्जलिमवाकिरत् ॥ २५ ॥ मोटनं भजनं जृम्भालस्यप्रेमजलोद्गमम् । तन्वन् नारीजनस्यैष प्राप स्वं सोत्सवं गृहम् ॥ २६ ॥ तत्राऽध्यास्य चतुष्कं स गोत्रवृद्धाङ्गनाकृतम् । प्रतीच्छतिस्म मांगल्यं कृतपूर्वजिनोत्सवः ॥ २७ ॥ ततो निवर्तिताशेषविवाहान्तविधिः सुधीः । तारेश इव रोहिण्या समं रेमे तयाऽनिशम् ॥ २८ ॥ भुञ्जानस्य सुखं तस्य पञ्चेन्द्रियसमाश्रयम् । जग्मुर्धर्माविरोधेन मुहूर्त्तमिव वासराः ॥ २९॥ १ अमृतं हि संतापनाशि भवति परन्तु सा तद्रूपामृतपानं कृत्वा हृदि कामतऽभूत् इत्येव कौतुकं । २ इदम् । ३ शतवर्षपर्यन्तम् । ४ उक्त्त्वा । ५ अक्षिपत्। । जग्राह । ७ चन्द्रः। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102