Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 37
________________ जिनदत्तचरित्रे सुगन्धकुसुमामोदमत्तकोकिलकोमले। .. अनल्पफलसम्भारनम्रसर्वमहीरुहे ।। ७४ ।। चिरं चिक्रीड़ तत्राऽसौ सर्वेन्द्रियसुखावहे । क्रीडाद्रिदीर्घिकावल्लीविटपादिमनोहरे ॥ ७५ ॥ विशेषक। भ्राम्यताऽथ ततस्तेन तत्रादर्शि महौषधिः । शिखायां धारिताऽदृश्यं या करोति नरं क्षणात् ॥ ७६ ॥ अस्ति यद्यपि सर्वांगसौख्यं मम निकेतनम् । तथाऽपि पितुरुत्सृज्य स्थातुमत्र न युज्यते ।। ७७ ।। अक्षमेयं वियोगं च सोढुं यद्यपि मामकम् । दन्दह्यते तथाप्येष मानभंगो मनोऽनिशम् ॥ ७८ ॥ पद्मा न यावद्यापि विहिता वशवर्तिनी । तावदेते विषायन्ते विषया मम सर्वथा ॥ ७९ ॥ तिष्ठन्तमत्र मां माम कीदृशं किल बुध्यते । इत्यादि बहु सम्भाब्य तेनाऽऽदायि महौषधिः ॥ ८० ॥ शिखाग्रे तां ततो बद्ध्वा भूत्वाऽदृश्यस्ततो नृणाम् । जगाम काऽपि साऽप्येवं विललाप तदुज्झिता ॥ ८१ ॥ प्राणनाथमपश्यन्ती सा ददर्श दिशोऽखिलाः । तप्ता सन्तमसेनेव चक्रवाकीव केवला ॥ ८२ ।। त्वदृष्टिजीविता नाथ ! त्वत्पादकुलदेवता । स्वभावप्रेमसंसक्ता हा मुक्ताऽस्मि कथञ्चन ॥ ८३ ॥ केलिलीलां विहायाऽऽशु मुखचन्द्रं प्रदर्शय । मनःकुमुदमाम्लानमार्यपुत्र ! विकौशय ॥ ८४ ॥ १ अक्षमा इयं । २ प्रियं । ३ प्रफुल्लय । - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102