Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 36
________________ तृतीयः सर्गः। विवेश मानसे तस्य न सा शिक्षा विलासिनी । यतेरिव परं तेन शुश्रुवेऽधो विलोकिना ॥ ६३॥ चिन्तितं च पुनस्तेन नोपलम्भो भविष्यति । यथा तथा विधास्यामि किं मे बहुविकल्पनैः ॥ ६४॥ अनुमन्ये च तां तातभारतीमेवमस्त्विति । प्रणम्य तं जगामासौ प्रेयसीसदनं ततः ॥६५॥ अभ्युत्थानादिकं कृत्वा तया ज्ञातं मनोगतम् । व्यासक्तमानसं चक्रे सविलासकथान्तरैः ॥ ६६ ॥ क्षणान्तरं ततः स्थित्वा तयेति किल चिन्तितम् । नयामि किल वेश्म स्वमेतं वैचित्त्यहानये ॥६७ ॥ ऊचे तयाऽऽर्यपत्राद्य मयाऽमा भवतो मम । पित्रा सुप्रहिता लातुं तत्र किं क्रियतामिति ॥ ६८ ।। प्रापयामि पितुर्गेहमत एव मिषादिमाम् । विभाव्येति बभाणोमां युक्तमेवं वरानने ॥ ६९ ॥ आपृच्छयेति ततस्तातमनुज्ञातौ गतौ सुखम् । परां जनेन संप्राप्तौ चम्पां चारूरुगोपुराम् ॥ ७० ॥ ज्ञातवृत्तस्ततो श्रेष्ठी विमलो मुदितो गृहम् । निन्ये स्वयं परं प्रीत्या तत्राऽस्थादिनपञ्चकम् ॥ ७१ ॥ अन्येार्गतवानेष क्रीडितुं प्रियया सह । प्रमदोद्यानमुद्दामकामविश्राममन्दिरम् ॥ ७२ ॥ मजुगुजदलित्रातबद्धतोरणमालिके । मन्दगन्धवहोद्भूतकामिनीकुन्तलालके ॥ ७३॥ १ स्त्रीगृहम् २ मया सह । ३ पवनः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102