Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 35
________________ जिनदत्तचरित्रे विना धनेन नार्धन्ति विमलाः सकलाः क्रियाः । विहीना यौवनेनेव सभूषाः पंण्ययोषितः ॥ ५२ ॥ कृतमेतेन तातादिधनेन मम साम्प्रतम् । गत्वा क्वापि करोम्येष धनोपार्जनमुत्तमम् ॥५३॥ प्रियामेतां निधायाशु मन्दिरे पितुरुत्सुकः। उपायं तं विधास्यामि येन स्यात्कमलाऽमला ॥ ५४॥ विचिन्त्येति ततोऽलक्ष्यवृत्तिरेष व्यवस्थितः । कुतोऽपि ज्ञातवृत्तान्तस्तमाहूय पिताऽब्रवीत् ॥ ५५ ॥ विषण्णोऽसि वृथा वत्स ! किमेवं कुरु वाञ्छितम् । धनैरेभिरहं पुत्र ! नाम्नैवैषामधीश्वरः ॥ ५६ ॥ निर्भर्तिसतो मया वत्स ! कोशाध्यक्षः सहस्रशः। यद्यन्यथा महाबुद्धे ! स्पृशामि तव मस्तकम् ॥ ५७ ॥ विनोदेनामुना किन्तु कुलकेतो ! न शोभसे । कृतं हि प्रथमं पुंसां महापापनिबन्धनम् ॥ ५८ ॥ कारयाऽऽशु जिनेन्द्राणां भवनानि महामते । सुवर्णरूप्यरनैश्च प्रतिमाः पापनाशनाः ॥ ५९ ॥ गीतवादिवत्यादि तत्रैव च दिवानिशम् । चतुर्विधाय संघाय देहि दानं यथाविधि ।।६०॥ सिद्धान्ततर्कसाहित्यशब्दविद्यादिपुस्तकैः । लेखयित्वा मुनीनां च दत्तैः पुण्यं समर्जय ॥ ६१ ॥ कूपवापीतड़ागानि प्रमदादिवनानि च । पुत्र सर्वाणि चित्राणि यथाकामं विधापय ॥६२॥ १ न पूज्या भवन्ति । २ वेश्याः ३ । करिष्यामि । ४ धनानाम् । ५कारय । Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102