Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 30
________________ तृतीयः सर्गः । २५ तृतीयः सर्गः। स्थित्वा च कतिचित्तत्र दिनानि मुदितस्तया। समं विज्ञापयामास श्वशुरं गुणमन्दिरम् ॥ १॥ यथा वातादयो माम मदागमनमञ्जसा । मृगयन्तोऽवतिष्ठन्ते ततः प्रेषय मां लघु ॥२॥ अनुज्ञातस्ततस्तेन सदुःखेन कथञ्चन । भणित्वेति यथा पुत्र ! विच्छेदस्तव दुःसहः ॥ ३॥ दत्वा परिकरं सर्व दासीयानादिसंयुता। पुत्री समर्पिता तस्मै श्रीवत्सायेव गोमिनी ॥४॥ ततस्तमनुयातुं ये चेलः श्रेष्ठ्यादयो जनाः। आगत्य ते स्थिताः सर्वे बाह्योद्यानजिनालये ॥ ५॥ तत्र पूजादिकं कृत्वा शिरस्याघ्राय देहजाम् । शिक्षयामास गम्भीरमिति तां विनतां पिता ॥६॥ सुतनो ! मा कृथा जातु क्रौर्यदौर्जन्यचापलम् । अन्यथा स्याः समस्तानां विषवल्लीव दुर्भगा ॥ ७ ॥ पत्युस्कायेर्वं भूयास्त्वं सर्वदाऽनुगता सती । समानसुखदुःखा च दुर्वृत्ताचारदूरगा ॥ ८॥ धर्मकार्यरता नित्यं गुरुदेवनता सुते । निजवंशपताकेव भूयाः किं बहुभाषितैः ॥९॥ १ "साकं साधं समं सहेत्यमरः"। २ “समवप्रविभ्यःस्थः" इत्यनेनात्मनेपदं । ३ लक्ष्मीः । ४ चलन्तिस्म । ५ पुत्रीं । ६ हे पुत्रि । ७ भवेः । ८ छायावत् । Jain Education International For Private & Personal Use Only ____www.jainelibrary.orgPage Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102