Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 28
________________ द्वितीयः सर्गः। २३ प्रबोधितास्ततो दीपाः प्रतिवेश्म तमश्छिदः । सस्नेहाः सद्दशोपेताः पात्रस्थाः सुजना इव ॥ ११२ ॥ कौतुकादिव तं द्रष्टुं वधूवरयुगं तदा । निशानारी समायाता तारामौक्तिकभूषणा ॥ ११३॥ तमास्तम्बेरमेणेदं मत्वाकान्तं जगजवात् । उदियाय नभोईरण्ये चन्द्रसिंहोंऽशुकेसरः॥ ११४ ॥ मन्दमन्दतमःस्तोमं व्योम सोमकरैरैभात् । चन्दनेन मदेनेव लिप्तं स्मरपांगणम् ॥ ११५ ॥ ततः क्षीरार्णवस्येव कल्लोलैः सकला दिशः। क्षालिता इव भाश्चक्रेश्चके कुमुबान्धवः ॥ ११६॥ ददर्श त्यक्तहाराऽपि मुग्धा काऽपि रतोत्सुका । स्तनाभोग लसञ्चारुचन्द्रांशुकृततद्भमा ॥ ११७ ॥ दूतीभिर्मन्मथालापाः सकम्पा रतकौतुकाः। मुग्धा निवेशिताः शय्योत्संगेऽधीशां हठादिव ॥ ११८ ॥ अमृतैरिव निौते कर्पूरौरव पूरिते । जाते तदा करैरिन्दो रम्ये भुवनमण्डपे ॥ ११९ ॥ उद्दण्डकामकोदण्डचण्डिमाकान्तविष्टपे । सङ्केतमन्दिरद्वारनिषीददभिसारके ॥ १२० ॥ मानिनी माननिर्णाशविधिव्यासक्तबल्लभे। विचित्ररतसंमर्दकदर्थितनवांगने ॥ १२१ ॥ १ प्रतिप्रहं । २ तिमिरहस्तिना । ३ उदितोऽभूत् । ४ आकाशवने । ५ चन्द्रकिरणैः । ६ कान्तिसमूहैः । ७ चन्द्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102